एला
इयम् एला भारते अपि वर्धमानः कश्चन सस्यविशेषः । एला अपि सस्यजन्यः आहारपदार्थः । इयम् एला आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । एषा एला आङ्ग्लभाषायां Cardamom इति उच्यते । एषा एला वाणिज्यसस्यम् अपि । काफीवाटिकायाम् उपफलोदयरूपेण एलायाः वर्धनं क्रियते । एलासस्यं गुल्मवर्गस्य वृक्षकः भवति । अयं वृक्षकः आहाराणां गन्धस्य रुचेः च वर्धनार्थम् आवश्यकानि फलानि उत्पादयति । भारतीयपाकशालासु सर्वत्र एला भवति एव प्रायः । सर्वत्र अपि एला मधुरभक्ष्याणां निर्माणे अधिकतया उपयुज्यते । तद्विना वमनस्य निरोधकरूपेण, पित्तशामकरूपेण अपि एला उपयुज्यते ।
प्रसिद्धेषु उपकरद्वव्येषु अन्यतमः एला । जलप्रदेशे अयं सम्यक् वर्धते । अस्य रुचिः कटुमिश्रितमधुरः ।
एलायां विधमानाः अंशाः
अस्मिन् पोटासियं लवणः २%, पिष्टं ३% पीतर‘झ्जकद्रव्यं, म्य़ाङ्गनीसयुक्तं भस्म उडनशीलं तैलं च भवति । तैले cineol, Terpineol, Terpinene, Limonene, sabinene च भवति ।
आयुर्वेदीयरीत्या उपयोगाः
मूत्रसम्बन्धीरोगशामकः
एला अनेकेषां मूत्रसम्बन्धिरोगाणां शामकः । एलायाः चूर्णस्य सेवनेन मूत्रविसर्जनसमये क्लेषः अस्ति चेत् अपगच्छति । अस्य चूर्णस्य सेवनेन मूत्रोत्पत्तौ समस्या विद्यते चेत् परिहृता भवति ।
मुखवासकः
एलायाः हितकरः गन्धः विद्यते । अतः अस्य सेवनं मुखवासनरोगं निवारयति ।
हृदयरोगे परिणामकारी
एला हृदयस्य उपरि अपि सत्परिणामं जनयति । घृतेन सह एलायाः सेवनेन हृदयरोगा ? शाम्यन्ति इति प्राचीनग्रन्थेषु उल्लेखः लभ्यते । अस्य सेवनं हृदयदौर्भल्यमपि दूरीकरोति ।
जीर्णकरः
अधिककदलीफलभक्षणेन अजीर्णता अनुभूयते चेत् एलायाः द्वित्रान् बीजान् सम्यक् चर्वित्वा गिलेत् । अनुक्षणं परिहारः लभ्यते ।
इतरे उपयोगाः
एलायाः वस्रगालितचूर्णं कृत्वा नस्यवत् सेवनेन शिरोवेदना शाम्यति ।एलायाः चूर्णं बादामि-खण्डशर्कशयोः च मिश्रीकृत्य नियमितरुपेण सेव्यते चेत् मस्तिष्कस्य बलवर्धनं भवति स्मरशक्तिः च वर्धते । पित्तकारणेन शिरोभ्रमणम् अनुभूयते चेत् गुडेन सह एलचूर्णं योजयित्वा पानकं निर्मीय पातव्यम् । अयं वमने, विरेचने अपि हितकरः ।
जागरूकता
एलायां रुक्षगुणः अपि वर्तते । अतः गर्भिव्यः स्त्रियः दीर्घकालम् अस्य सेवनं न कुर्युः । कफजन्यरोगेषु एलायाः प्रयोगः हानिकरः । एलायाः दुष्परिणामनिवारणार्थं ज्येष्ठमधोः चूर्णः सेवनीयः ।
एला०.५-१ ग्रां प्रमाणेन चिकित्सायां, प्रयुज्यते, एलायां बृहत् , लघु इति विधद्वयं भवति । औषधार्थं लघुः एलाएव उपयुन्यते ।
एलानिर्मितानि औषधानि
- १. एलादिचूर्णः
- २. एलाद्यरिष्टः
- ३. एलादिगुटिका
- ४. एलाद्यमोदकः
- ५. एलादिक्वाथः
अधिकानि चित्राणि
-
एलासस्यम्
-
एलापुष्पम्
-
एलाफलं बीजं चापि
-
एला, एलायाः अन्तः बहिः च दृश्यमानानि बीजानि
-
कूप्यां सङ्गृहीताः एलाः
-
एलाराशिः
बाह्यसम्पर्कतन्तुः
- एला