गोकाककरदण्टु


करदण्टु नामकं मधुरखाद्यम् एतत् कर्णाटके प्राप्यमाणं विशिष्टं खाद्यम् अस्ति । तत्रापि गोकाकनगरे निर्मितं करदण्टु सुप्रसिद्धम् अस्ति । प्रादेशिकभाषया करद नाम भर्जितं(घृते) अण्टु नाम निर्यासः ।

एतस्य निर्माणार्थम् उपयुज्ज्यमानानि पदार्थानि

खादनयोग्यः निर्यासः, शुष्काणि फलानि, चणकपिष्टं, गुडः, भल्लातकं ,वातामं शुष्कद्राक्षा इतराणि पौष्टिकानि पादार्थानि। कर्णाटकराज्ये बेळगावीमण्डलस्य गोकाक, तथा बागलकोटेमण्डलस्य अमीनगड करदण्टुनिमित्तं प्रसिद्धे नगरे स्तः ।