घटप्रभा

घटप्रभा नद्यः
दैर्घ्यम् 283 किमी (176 मील)


घटप्रभा नद्यः भारतस्य पश्चिमघट्टेषु उद्भवति। २८३ किलोमीटर् पर्यन्तं पूर्वदिशं प्रति प्रवहति । एषा नदी बेळगावी मण्डलस्य गोकाक इति स्थाने ५३मीटर्तः अधः पतति } एषा ८८२९ चतुरस्रकिलोमीटर्प्रदेशं यावत् जलसेचनं करोति।

उगमः

अनन्तरं बागलकोटेमण्डले कलादगी ग्रामे इशान्यदिशि ३५कि.मी दूरे कृष्णानद्या मिलति । घटप्रभानद्याः जलानयनप्रदेशस्तावत् ८८२९ च .कि.मी विस्तृतः अस्ति ।

उपनद्यः

हिरण्यकेशी एवं मार्कण्डेयनदी अस्याः उपनद्यौ ।

जलबन्धाः

धूपदाळ् जलबन्धः

घटप्रभानद्याः गोकाक-उपमण्डले धूपदाळ् ग्रामस्य समीपे १८९८ तमे वर्षे एकः जलबन्धः निर्मितः । अस्मात् जलबन्धात् ७१ कि.मी. यावत् कुल्याः निर्मिताः । अनेन ४२५००० हेक्टेरप्रदेशस्य जलव्यवस्था जाता । स्वातन्त्र्यानन्तरं कर्णाटकसर्वकारेण एषा कुल्या १०९ कि.मी. यावत् विस्तारिता ।

हिडकल् जलवन्धः

हिडकल् ग्रामस्य समीपे निर्मिते जलाशये ६५९ दशलक्षघन.मी. जलं सङ्गृह्णन्ति। अनेन जलनयनप्रदेशस्य विस्तारस्तावत् – २३९६१४ हेक्टेरमितं जातम् ।

भविष्यत्कालीनयोजनाः

हिडकल् जलाशयस्य उन्नतीकरणम् । अनेन३,३१,००० हेक्टेर् प्रदेशस्य जलव्यवस्था भविष्यति ।

जलपातः

गोकाकपट्टणात् १० कि.मी दूरे सुन्दरः जलपातः गोकाकजलपातः इति प्रसिद्धः। तस्य औन्नत्यं तावत् ५३ मी. जलपातस्य उपरि पुरातनदोलासेतुः आकर्षिका विद्यते ।