प्
|

अस्य उच्चारणस्थानं ओष्ठौ स्तः। एषः व्यञ्जनवर्णः। एषः अल्पप्राणवर्णः । पवर्गस्य प्रथमः वर्णः । ।"कादयो मावसानाः स्पर्शाः" । उपूपध्मानीयानां औष्ठो -”सि० कौ०
नानार्थाः
- वस्त्रम्
- रक्षकः
- पवित्रम्
“पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्तितः। पवने पः समाख्यातः पः स्यात् पाने च पातरि” – एकाक्षरकोशः
- कुबेरः
- पश्चिम (वि) (दिशा)
- पवनः
- पानम्
“ पो ना वाताण्डपूतेषु पाने पातरि कीर्तितः”- मेदिनीकोशः
- वाताण्डः
- पर्णम्
“पः पुमान् पवने शैले प्राकारे कौस्तुभे रणे। शुभलग्नेऽथ पं क्लीबे हेम्नि” - नानार्थरत्नावलिः
- शैलः
- प्राकारः
- मणिः
- रणम्
- शुभलग्नः
- सुवर्णम्
“स्त्रीलिङ्गे त्वम्बुधारायां सुधायां संमतौ च पा” – नानार्थरत्नावलिः
- अम्बुधारा
- सुधा
- सम्मतिः