प्लाक्षफलम्

Ficus carica – Common fig
Drawing of the common fig foliage and fruit
Drawing of the common fig foliage and fruit
संरक्षणस्थितिः

खतरे से बाहर श्रेणी:संकटमुक्त जातियाँ (IUCN3.1)
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Rosales
कुलम् Moraceae
ट्राइबस् Ficeae
वंशः Ficus
उपवंशः Ficus
जातिः F. carica
द्विपदनाम
Ficus carica
L.
पर्यायपदानि
  • Ficus carica L.
  • Ficus carica var. afghanica Popov
  • Ficus carica var. caprificus Risso
  • Ficus carica var. domestica Czern.&Rav.
  • Ficus carica var. globosa Hausskn.
  • Ficus carica var. johannis (Boiss.) Hausskn.
  • Ficus carica var. longipes Bornm. exParsa
  • Ficus carica var. riparium Hausskn.
  • Ficus carica var. rupestris Hausskn.
  • Ficus carica subsp. rupestris (Hausskn.)Browicz
उद्घाटितं प्लाक्षफलम्
वृक्षे दृश्यमानानि अपक्वानि प्लाक्षफलानि

एतत् प्लाक्षफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् प्लाक्षफलम् अपि सस्यजन्यः आहारपदार्थः । इदं प्लाक्षफलम् आङ्ग्लभाषायां common fig इति उच्यते । एतत् प्लाक्षफलम् अकृष्टपच्यम् अपि । प्लाक्षफलम् देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् प्लाक्षफलं वस्तुतः मरुभूमौ सम्यक् वर्धते । तद्विना अन्यत्र अपि इदानीं वर्धयन्ति । इरान्, अफघानिस्तानम्, अरब्, भारतम् इत्यादिषु देशेषु प्लक्षवृक्षस्य वर्धनं महता प्रमाणेन वर्धयन्ति ।

एतत् प्लाक्क्षवृक्षे वर्षे द्विवारं फलोदयः भवति । एषः कश्चन विशिष्टः वृक्षः । परागस्पर्शं विना एव पुषितः, फलितः च भवति । वर्षद्वयस्य वयसि एव फलितः भवति अयं वृक्षः । एतत् प्लाक्षफलम् आम्लमिश्रितमधुररुचियुक्तम् । एतानि फलानि शुष्कीकृत्य संरक्ष्यन्ते । तादृशानां शुष्कफलानां, तस्य फलस्य चूर्णस्य च अपेक्षा सर्वत्र अस्ति । अस्य प्लाक्षवृक्षस्य पर्णानि महाकारकाणि । एते वृक्षाः ८ तः १० पादमितानि उन्नतानि भवन्ति । मार्च, मे, जुलै, सेप्टेम्बर् मासेषु फलिताः भवन्ति अपि ।

आयुर्वेदस्य अनुसारम् अस्य प्लाक्षफलस्य स्वभावः

१ अस्य प्लाक्षफलस्य सेवनेन शरीरस्य भारः वर्धते ।
२ प्लाक्षफलं चर्मरोगं निवारयति ।
३ प्लाक्षफलस्य सेवनेन शरीरस्य औष्ण्यं न्यूनं भवति ।
४ प्लाक्षफलं रक्तपुष्टिं करोति ।
५ एतत् प्लाक्षफलं मूत्तावरोधं निवारयति ।
६ अस्मिन् प्लाक्षफले शर्करापिष्टं, ससारजनकं, रञ्जकं, सुधा, 'ए' जीवससत्वम् इत्यादयः पोषकांशाः अत्यधिकप्रमाणेन सन्ति ।
७ एतत् प्लाक्षफलं शुष्कफलत्वेन यथा उपयुज्यते तथैव अवलेहस्य, जाम्, केक्, पेस्ट् इत्यादीनां निर्माणे अपि उपयुज्यते ।
८ एतत् प्लाक्षफलं रक्तस्रावम् अपि स्थगयति ।
९ प्लाक्षफलस्य सेवनेन शीतलारोगः अपि अपगच्छति ।

बाह्यसम्पर्कतन्तुः