बादामी
बादामी ಬಾದಾಮಿ वातापि | |
---|---|
नगरम् | |
श्रिविष्णुदेवस्य चित्रम् | |
राष्ट्रम् | India |
राज्यानि | कर्णाटकराज्यम् |
मण्डलम् | बागलकोटेमण्डलम् |
Elevation | ५८६ m |
Population (2001) | २५,८५१ |
भाषाः | |
• अधिकृत | कन्नडभाषा |
Time zone | UTC+5:30 (भारतीयसामान्यकालमानम्) |
पत्रालयकूतटसंख्या |
587 201 |
दूरवाणीसङ्केतः | 08357 |
बादामी
बादामी (Badami) कर्णाटकस्य बागलकोटेमण्डले विद्यमानं किञ्चन प्रेक्षणीयं स्थानम् । पूर्वं वातापी इति अस्य नाम आसीत् । निसर्गरमणीयम् इदं स्थानं शिलापर्वतानां मध्ये अस्ति । अत्र चत्वारः गुहादेवालयाः सन्ति । पर्वतारोहणाय सोपनानि निर्मितानि सन्ति । द्वौ विष्णुदेवालायौ, कश्चित् शिवदेवालयः, कश्चित् जैनदेवालयः च सन्ति । उन्नतपर्वतात् अगस्त्यतीर्थस्य वीक्षणम् अतीव मनोहरं भवति । पूर्वकाले बादामी चालुक्यवंशीयानां राजधानी आसीत् । कपीनां वासस्थलमेतत् ।
मार्गः
- गदग-सोल्लापुररेलमार्गे बादामी निस्थानम् अस्ति ।
- बेङ्गळूरुतः ५०२ कि.मी. ।
- हुब्बळ्ळीतः १२८ कि.मी.।
- बागलकोटेतः ४६ कि.मी. ।
- गदगतः ६७ कि.मी.
- बिजापुरतः १२० कि.मी । समीपविमाननिस्थानम् -बेळगावी
बाह्यानुबन्धाः
- बादामीनगरे सङ्ग्रहालय
- बादामीनगरस्य कला
- बादामीनगरे मन्दिराणि
- बागल्कोट्मण्डलस्य सूचना
- बादामी गूगिल् मानचित्रम्
S