महिषः

कश्चन प्राणिविशेषः यः कृष्यर्थं परिश्रमकार्यार्थं कृषकैः पाल्यते । "लुलायॊ महिषॊ वाहद्विषत्कासरसैरिभाः" इत्यमरः । कृषीवलानां महोपकारी सस्याहारी चायं महाबलशाली च । अतः कार्षिकाः महिषं भारवहनार्थं शकटे, केदारेषु कृषिकार्यार्थं हलफलकादिषु च बध्नन्ति । महिषः रोमालुः तीक्ष्णशृङ्गः महाभयङ्कर इव दृश्यते । किन्तु सः बृहच्छरीरोऽपि अतीव साधुस्वभावः, मुग्धः बह्वाशी च । महिषः शरीराकृत्या वनमहिषस्य गवयस्य खड्गमृगस्य वा आकारं, गजस्य बलं च विन्दते । अयं ग्रामीणः पशुः । अयं संयमिनीपतेः यमस्य वाहनम् । "प्रलयाम्बुदसंकाशः महिषोपरिसंस्थितः" इति गरुडपुराणे यमो वर्णितः । अतः जनाः एनं अशुभशकुन इव मन्यन्ते । स्वप्ने महिषस्य, महिष्याः वा दर्शने मृत्युसूचना इति जनाः मन्वते ।

  • buffalo ṃ

फलकम्:Feminine महिषी

महिष:

ml:

आनुवादा:

  • मलयाळम्:പോത്ത്
  • आम्गलम्: buffalo
  • हिन्दि: भैम्स्
  • कन्नड: ಕೋಣ