शिरोमणि अकालीदलम्

शिरोमणि अकालीदलम्
ਸ਼੍ਰੋਮਣੀ ਅਕਾਲੀ ਦਲ
अध्यक्षः सुख्बीर सिं बादल्
निर्माणम् १४ डिसेम्बर्, १९२०
महिलाविभागः परम्जीत कौर् गुल्सन्
विचारधारा सिक्खवादः
वर्णः कपिलवर्णः
मैत्रीकूटः राष्ट्रियगणतान्त्रिकमैत्रीकूटः (एन् डि ए)
लोकसभासदस्यसंख्या
४ / ५४५
राज्यसभासदस्यसंख्या
३ / २४५
विधानसभासदस्यसंख्या
५६ / ११७
निर्वाचनचिह्नम्
तुलायन्त्रम्(ਤੱਕੜੀ)
जालस्थानम्
http://www.shiromaniakalidal.org.in

शिरोमणि अकालीदलम् (English: Shiromani Akali Dal,गुरुमुखी लिपिः : ਸ਼੍ਰੋਮਣੀ ਅਕਾਲੀ ਦਲ) इति सिक्ख्-जनकेन्द्रिक एकः भारतीयराजनैतिकपक्षः । वस्तुतस्तु शिरोमणि अकालीदलमिति नामसमन्विताः वहवः पक्षाः सन्ति । तेषु निर्वाचनायोगस्य अनुमोदनं सुख्बीर सिं बादल् परिचालितः पक्षः एव शिरोमणि अकालीदलम् इत्यविधा प्राप्तवान् ।

विवरणम्

अकाली आन्दोलनम्

  • १९२० वर्षस्य डिसेम्बर् मासस्य विंशतिदिनाङ्के अकालीदलमित्यं पक्षः संस्थापितः । सिक्खधर्मीयसंस्था सिरोमणिप्रबन्धकसमितेः विशेषकर्मीवाहिनीरूपेण अस्य पक्षस्य स्थापना अभवत् । अकालीदलम् सिक्खजनानां प्रतिनिधित्वम् अकरोत् । सर्दार सर्मुख सिं झाभल्-महोदयः पक्षस्य प्रथमोऽध्यक्षः आसीत् । परन्तु अकालीदलस्य प्रचारःगुरु तारा सिं नेतृत्वे अभवत् ।
  • अयं पक्षः पृथक् पञ्जाबराज्यम् अभियाच्य "पञ्जाबी सुबा आन्दोलनम्" अकरोत् । सन्तः फतेह् सिं महोदयस्य नेतृत्वे आन्दोलनमिदं घटितमासीत् । परिणामस्वरूपं १९६६ तमे वर्षे पञ्जाबराज्यस्य गठनम् अभूत् । नवनिर्मितपञ्जाबराज्यस्य सर्वकारः अकालीदलेन संरचितासीत् । परन्तु किञ्चित्कालानन्तरं स्वदलीयमतविरोधात् सर्वकारस्य पतनम् अभवत् ।

वर्तमानराजनैतिकस्थितिः

  • वर्तमाने पञ्जाबराज्ये 'शिरोमणि अकालीदलस्य' सर्वकारः अस्ति । अस्मिन् प्रदेशे राज्यस्तरीयभारतीयजनतापक्षेण सह अकालीदलस्य मैत्रीकुटः अस्ति । पञ्जाबराज्यविधानसभायां शिरोमणि अकाली दलस्य ५६, भारतीयजनतापक्षस्य १२ सदस्याः सन्ति । शिरोमणि अकालीदलस्य ४ लोकसभासदस्याः सन्ति ।
  • शिरोमणि अकालीदलस्य भूतपूर्वाऽध्यक्षः, वरिष्ठनेता प्रकाश सिं बादल् महोदयः राज्यस्य मुख्यमन्त्रीरूपेण विराजमानः अस्ति । तथा पक्षाऽध्यक्षः सुख्बीर सिं बादल् महोदयः उपमुख्यमन्त्री पदे विराजमानः अस्ति ।

पक्षाऽध्यक्षणां नामानि

सिक्खनेता भाइ मोहिन्दर सिं
सिक्खनेता भाइ मोहिन्दर सिं
  • सुर्मुख सिं झाभल्
  • बाबा खरक् सिं
  • गुरु तारा सिं
  • गोपाल सिं कुर्मि
  • तारा सिं थेथर्
  • तेजा सिं अकर्पुरि
  • बाबु लाभ सिं
  • उदाम् सिं जी नागोके
  • गियानी कर्तार सिं
  • प्रितम सिं गोद्रान्
  • हुकम् सिं
  • सन्त फतेह सिं
  • अचार सि
  • भुपिन्दर सिं
  • मोहन सिं तुर्
  • जगदेव सिं तलवाण्डि
  • सन्त हरचरण सिं लोङ्गोयाल्
  • सुर्जीत सिं बर्नला
  • प्रकाश सिं बादल्
  • सुख्बीर सिं बादल्

पक्षस्य मुख्यमन्त्रीगणः

क्रमः नाम दायित्वकालः
प्रथमः गुरुनाम सिं १९६७–१९६७
द्वितीयः लछमन् सिं गील् १९६७–१९६८
तृतीयः गुरुनाम सिं १९६९–१९७०
चतुर्थः प्रकाश सिं बादल् १९७०–१९७१
पञ्चमः प्रकाश सिं बादल् १९७७–१९८०
षष्टः सुर्जीत सिं बर्नला १९८५–१९८७
सप्तमः प्रकाश सिं बादल् १९९७–२००२
अष्टमः प्रकाश सिं बादल् २००७-