शीतकम्

उद्घाटितं शीतकम्

शीतलीकरणयन्त्रम् एव शीतकम् इति उच्यते । इदं शीतकम् आङ्ग्लभाषायां Refrigerator इति उच्यते । बहुकालं यावत् आहारवस्तूनां रक्षणार्थम् अस्य शीतकस्य उपयोगः क्रियते । पुरातनकाले एतेषां शीतकानां स्थाने मृद्घटानाम् उपयोगः क्रियते स्म । इदानीम् अपि निर्धनाः घर्मकाले जलं शीतलं रक्षितुं मृद्घटानाम् एव उपयोगं कुर्वन्ति ।