जबलपुरम्

जबलपुर-महानगरम्

jabalapur
'संस्कार धानी'
जबलपुर-महानगरम्
जबलपुर-महानगरम्
Nickname(s): 
‘’’नर्मदानगरी’’’, ‘’’Ordnance Hub of India’’’
मध्यप्रदेश राज्यस्य मानचित्रे जबलपुर नगरम्
मध्यप्रदेश राज्यस्य मानचित्रे जबलपुर नगरम्
देशः भारतम्
राज्यम् मध्यप्रदेशराज्यम्
मण्डलम् जबलपुरमण्डलम्
महानगरविस्तारः ३६७ च. कि. मी.
जनसङ्ख्या (२०११) १२, ६७, ५६४
Government
 • Type महापौरपरिषद्-सर्वकारः (Mayor–council government)
 • Body जबलपुर म्युनिसिपल् कोर्पोरेशन्
 • महापौरः प्रभात साहु
 • म्युनिसिपल कमीशनर् राजेश मुश्रा
Demonym(s) जबलपुरिया
Time zone UTC+५:३० (भारतीयमानकसमयः (IST))
पिन कोड
४८२ xxx
Area code(s) ०७६१
Vehicle registration एम पी - २०
साक्षरता ८९.१३%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४६%
Website Jabalpur Municipal Corporation

जबलपुरम् ( /ˈdʒəbələpʊrəm/) (हिन्दी: जबलपुर, आङ्ग्ल: Jabalpur) इत्येतन्नगरं मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतस्य जबलपुरमण्डलस्य केन्द्रम् अस्ति । जबलपुर-महानगरं मध्यप्रदेशराज्यस्य प्रमुखमहानगरेषु अन्यतमं वर्तते । इदं नगरं नर्मदानद्याः उत्तरभागे स्थितम् अस्ति । इदं नगरं परितः सरोवराः, मन्दिराणि च सन्ति । अस्मिन् नगरे उच्चन्यायालयः अपि अस्ति । जबलपुर-महानगरे साक्षरतायाः, संस्कृतेः, सामाजिकस्य, राजनीतेः इत्यादीनां प्राचीना परम्परा प्रचलति । नगरमिदं आङ्ग्लं, हिन्दी, उर्दू इत्यादीनां भाषाणां लेखकानां, प्रकाशकानां, मुद्रकानां च आवासस्थलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं जबलपुर-महानगरस्य जनसङ्ख्या १२,६७,५६४ अस्ति । अत्र ६,६३,०९६ पुरुषाः, ६,०४,४६८ महिलाः च सन्ति । भारतस्य प्रमुखनगरेषु जबलपुर-महानगरस्य अष्टत्रिंशत्(३८)क्रमाङ्कः अस्ति । अत्र साक्षरता ८९.१३% अस्ति ।

भौगोलिकी स्थितिः

जबलपुरनगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २३º १० उ., ७९º ५६ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं ४१२ मी. अस्ति । इदं नगरं नर्मदानद्याः तटे स्थितम् अस्ति । अस्य नगरस्य एकस्मिन् भागे विन्ध्यपर्वतशृङ्खला अस्ति । अस्मिन् नगरे नवम्बर-तः फरवरी-पर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं ८ ºC भवति । अस्मिन् नगरे मार्च-तः जून-पर्यन्तं ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ४२ ºC भवति । अस्मिन् नगरे जुलाई-तः सितम्बर-पर्यन्तं वर्षर्तुः भवति । अत्र सामान्यतः ३५ इन्च(inch) स्तरं यावत् वर्षा भवति ।

इतिहासः

पुराणानुसारम् अस्य नगरस्य नाम जाबालिऋषेः नामोपरि अभवत् । जाबालिऋषिः अत्रैव निवसति स्म । पुरा अस्य नगरस्य नाम जाबालिपुरम् आसीत् । किन्तु अपभ्रंशकारणात् जबलपुरम् इत्यभवत् ।

१७८१ परम् अत्र मराठा-शासकानाम् आधिपत्यमासीत् । इदं नगरं मराठा-शासनस्य मुख्यालयः आसीत् । ततः परम् इदं नगरं मध्यप्रदेशराज्यस्य सागरविभागस्य नर्मदाविभागस्य च मुख्यालयः अभवत् । अत्र १८६४ तमे वर्षे नगरपालिकायाः निर्माणम् अभवत् । अस्य नगरस्य एकस्मिन् पर्वतक्षेत्रे मदन महल अस्ति । अस्य भवनस्य निर्माणं ११०० तमे वर्षे राज्ञा मदन सिंह इत्यनेन कारितम् । इदम् एकं प्राचीनं गोण्ड-शासनकालीनं भवनम् अस्ति । अस्य भवनस्य पश्चिमे एकं नगरम् अस्ति यत् चतुर्दशतमायां शताब्द्यां चतुर्णां स्वतन्त्रगोण्ड-राज्यानां प्रमुखं नगरमासीत् ।

भेडाघाट, ग्वारीघाट, जबलपुरम् इत्यादिभ्यः स्थानेभ्यः जीवाश्मनः प्राप्यन्ते । अतः इदं नगरं प्रागैतिहासिककालस्य पुरापाषाणकालीनानां मनुष्याणां निवासस्थानमासीत् इति स्पष्टं भवति । अस्य नगरस्य मदन महल, सरोवराः, मन्दिराणि च प्राचीनानि सन्ति ।

कृषिः वाणिज्यं च

अस्मिन् नगरे अग्निशस्त्राणां (Gun) केन्द्रिययन्त्रागारः, शस्त्रागारः च अस्ति । अस्मिन् नगरे सस्योत्पादनम् अधिकमात्रायां भवति । अस्य नगरस्य समीपस्थे क्षेत्रे पश्चिमतटे एका उर्वरा भूमिः वर्तते । तत्र गोधूमस्य कृषिः भवति । तण्डुलाः, गोधूमः, चणकः इत्यादयः प्रमुखानि सस्योत्पादनानि सन्ति । अत्र लौहः, चूर्णपाषाणः, फेल्सपार्, मैङ्गनीज़् इत्यादीनाम् अधिकमात्रायां खननं भवति ।

जबलपुर-नगरस्य शैक्षणिकसंस्थानानि

  • जवाहरलाल नेहरू कृषि विश्वविद्यालय
  • रानी दुर्गावती विश्वविद्यालय
  • एम. पी. भोज मुक्त विश्वविद्यालय
  • कॉलेज ऑफ एग्रिकल्चर एञ्जिनियरिङ्ग्
  • फेकल्टी ऑफ् मेनेज्मेण्ट् स्टडीज़् कॉलेज ऑफ मटीरियल मेनेजमेण्ट
  • जी.एस. कॉलेज ऑफ कॉमर्स एण्ड इकोनॉमिक्स्

वीक्षणीयस्थलानि

मदन महल

मदन महल

मदन महल नामकं दुर्गं जबलपुर-नगरात् २ कि. मी. दूरे स्थितमस्ति । कलचुरी-शासनानन्तरं जबलपुर-नगरे गोण्ड-शासकाः आगतवन्तः । अस्य दुर्गस्य निर्माणं गोण्ड-शासकेन मदन सिंह इत्याख्येन कारितम् । इदं दुर्गं गोण्ड-शासनकालस्य साक्षी अस्ति । इदं दुर्गम् एकस्मिन् लघुशैले स्थितमस्ति । अस्मिन् दुर्गे शाही-वंशस्य मुख्यकक्षः, लघुजलाशयः च अस्ति । मदन महल इत्येतत् दुर्गं भारतस्य आकर्षकेषु प्राचीनस्मारकेषु अन्यतमम् अस्ति ।

रानी दुर्गावती-सङ्ग्रहालयः

रानी दुर्गावती-सङ्ग्रहालयः जबलपुर-महानगरे स्थितः अस्ति । मध्यप्रदेशराज्यस्य प्रसिद्धेषु सङ्ग्रहालयेषु अयम् अन्यतमः अस्ति । अस्य सङ्ग्रहालयस्य निर्माणं १९६४ तमे वर्षे जातम् । अयं सङ्ग्रहालयः गोण्ड-वंशस्य राज्ञ्याः दुर्गावत्याः स्मृतौ निर्मापितः । अस्मिन् सङ्ग्रहालये मूर्तीनां, शिलालेखानाम्, ऐतिहासिकीनां सांस्कृतिकीनां च कलाकृतीनां विशालसङ्ग्रहः अस्ति । अस्मिन् सङ्ग्रहालये दुर्गादेव्याः पाषाणनिर्मिता मूर्तिः अपि अस्ति । सङ्ग्रहालयेऽस्मिन् महात्मा गान्धी इत्याख्यस्य चित्राणि सन्ति । अस्मिन् सङ्ग्राहलये प्राचीनावशेषाः, अभिलेखाः, मुद्रणानि च सन्ति ।

भेडाघाट

इदं स्थलं जबलपुरमण्डले स्थितमस्ति । इदम् एकं रमणीयस्थलमस्ति । अस्य स्थलस्य समीपे चतुष्षष्ठियोगिनी-मन्दिरमपि अस्ति । धुआधार-जलप्रपातः अपि भेडाघाट इत्यस्य समीपे अस्ति । अत्र नर्मदानदी प्रवहति ।

गुप्तेश्वर-मन्दिरम्

अस्य मन्दिरस्य निर्माणम् १२५ वर्षपूर्वम् अभवत् । इदं मन्दिरं जबलपुर-महानगरस्य मध्ये स्थितमस्ति । अस्य मन्दिरस्य निर्माणं गल्ला मण्डी इत्यस्य व्यापारिभिः कारितम् । मन्दिरेऽस्मिन् प्राचीनकलाकृतयः सन्ति । अस्य मन्दिरस्य मान्यता अस्ति यत् यः कोऽपि जनः देव्याः अन्नपूर्णायाः आराधनां कृत्वा मन्दिरं गच्छति चेत् सः सदैव धनधान्यैः परिपूर्णः भवति ।

अन्यानि वीक्षणीयस्थलानि -

  • त्रिपुर सुन्दरी मन्दिरम्
  • बाजना मठ
  • तिलवारा घाट
  • जिलहरी घाट
  • ग्वारी घाट
  • खारी घाट
  • लम्हेट घाट

जबलपुर-नगरस्य प्रसिद्धाः व्यक्तयः

  • भवानी प्रसाद तिवारी
  • हरिशङ्कर परसाई
  • महर्षि महेश योगी
  • सुभद्रा कुमारी चौहान
  • द्वारका प्रसाद मिश्र
  • आचार्य रजनीश
  • ब्रजेश मिश्र
  • भूपेन्द्र नाथ कौशिक
  • प्रेमनाथ
  • राजिन्दर नाथ

मार्गाः

वायुमार्गः

जबलपुर-महानगरे डुमना-विमानस्थानकम् अस्ति । भारतस्य बहुभ्यः नगरेभ्यः वायुयानेन जबलपुर-नगरं प्रति विमानयानानि सन्ति ।

धूमशकटमार्गः

जबलपुर-महानगरे ’पश्चिम मध्य रेल्वे’ इत्यस्य मुख्यालयः अस्ति । मुम्बई, देहली, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, बेङ्गळूरु, ग्वालियर, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः जबलपुर-नगरं प्रति रेलयानानि सन्ति ।

भूमार्गः

जबलपुर-महानगरं राष्ट्रियराजमार्गेण सह संयुक्तम् अस्ति । अतः वाराणसी, लखनऊ, कानपुर, भोपाल, इन्दौर, लुधियाना, नागपुर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण जबलपुर-नगराय बस्-यानानि प्राप्यन्ते ।


बाह्यसम्पर्कतन्तुः

http://hi.bharatdiscovery.org/india/%E0%A4%9C%E0%A4%AC%E0%A4%B2%E0%A4%AA%E0%A5%81%E0%A4%B0
http://www.census2011.co.in/census/city/307-jabalpur.html