जबलपुरमण्डलम्

जबलपुरमण्डलम्

jabalpur District
जबलपुर जिला
जबलपुरमण्डलम्
जबलपुरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे जबलपुरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे जबलपुरमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि जबलपुर, शाहपुरा, पाटन, पनागर, मझोती, सिहोरा, कुन्दम
विस्तारः ५,२११ च. कि. मी.
जनसङ्ख्या (२०११) २४,६३,२८९
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ८१.०७%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४६.५%
Website http://jabalpur.nic.in/

जबलपुरमण्डलम् ( /ˈdʒəbələpʊrəməndələm/) (हिन्दी: जबलपुर जिला, आङ्ग्ल: Jabalpur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति जबलपुरम् इति नगरम् ।

भौगोलिकम्

जबलपुरमण्डलस्य विस्तारः ५,२११ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे डिण्डोरीमण्डलं, पश्चिमे नरसिंहपुरमण्डलम्, उत्तरे कटनीमण्डलं, दक्षिणे मण्डलामण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं जबलपुरमण्डलस्य जनसङ्ख्या २४,६३,२८९ अस्ति । अत्र १२,७७,२७८ पुरुषाः, ११,८६,०११ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.५१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ८१.०७% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- जबलपुर, शाहपुरा, पाटन, पनागर, मझोती, सिहोरा, कुन्दम ।

वीक्षणीयस्थलानि

बेडाघाट

बेडाघाट इत्यस्मिन् स्थले नर्मदानदी प्रवहति । नर्मदया पर्वतस्थाः शैलाः छिद्रिताः सन्ति । तत्र प्राकृतिकसौन्दर्यम् अस्ति । बहवः जनाः तत्र भ्रमणार्थं गच्छन्ति । तत्र एकः जलप्रपातः वर्तते । तज्जलप्रपातः धूम्रवान् जलप्रपातः कथ्यते ।

मदनमहल-दुर्गः

मदनमहल-दुर्गः जबलपुरमण्डलस्य गौरवम् अस्ति । अस्य दुर्गस्य निर्माणं राज्ञा मदन शाह इत्यनेन एकादशशताब्द्यां कारितम् । अयम् एकः सुन्दरः दुर्गः अस्ति ।

रानी दुर्गावती-सङ्ग्रहालयः

रानी दुर्गावती-सङ्ग्रहालयस्य निर्माणं राज्ञिदुर्गावत्याः स्मृतौ कृतम् अस्ति । अस्मिन् सङ्ग्रहालये अनेकानां मूर्तीनां, शिलालेखानाम्, ऐतिहासिकावशेषाणां सङ्ग्रहः अस्ति ।

बाह्यसम्पर्कतन्तुः

http://jabalpur.nic.in/
http://www.census2011.co.in/census/district/318-jabalpur.html
http://www.bharatbrand.com/english/mp/districts/Jabalpur/Jabalpur.html Archived २०१४-०६-०९ at the Wayback Machine