पलाण्डुः

पलाण्डुः / Onion
पलाण्डुः
पलाण्डुः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
विभागः Angiosperms
वर्गः Monocots
गणः Asparagales
कुलम् Alliaceae
उपकुलम् एलियम्
ट्राइबस् Allieae
वंशः Allium
जातिः A. cepa
द्विपदनाम
Allium cepa
एलियम् केपा

अयं पलाण्डुः भारते वर्धमानः कश्चन कन्दविशेषः । अयं पलाण्डुः सस्यजन्यः आहारपदार्थः । अयं बहुपत्रः । अस्य रुचिः कटुमिश्रितमधुरा । एषः पलाण्डुः कदाचित् शाकत्वेन कदाचित् आहारोपस्कररूपेण वा उपयुज्यते । आहाररूपेणा पक्त्वा अपकत्वा उभयथा अपि अस्य उपयोगः भवति । अस्य पर्णानि नालाकाराणि भवन्ति । अस्य पुष्पाणि श्वेतानि गुच्छरूपेण गोलाकारे भवन्ति । भूमेः अन्तः वर्धमानस्य कन्दस्य वर्णः गात्रं, आकारः, गन्धः इत्यादिकं परस्परं भिद्यते । इदं सस्यं प्रायः जगति सर्वत्र वर्धते एव । अस्य कन्दाः, पर्णानि (सस्यम्) चापि औषधत्वेन यथा उपयुज्यन्ते तथैव आहारत्वेन अपि उपयुज्यन्ते । अस्मिन् कश्चन तैलांशः भवति । अस्य कन्देषु “गन्धकः” अपि भवति । अस्य कन्दस्य त्वचि पीतवर्णीयः कश्चन वर्णपदार्थः भवति ।

अनेन पलाण्डुना क्वथितं, व्यञ्जनं, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । एषः पलाण्डुः शाकान्नस्य, चित्रान्नस्य, पृथुकस्य, उपमायाः इत्यादीनाम् उपहाराणां निर्माणे अपि उपयुज्यते । एषः पलाण्डुः अपि बहुवर्णीयः भवति । तत्र रक्तवर्णस्य श्वेतवर्णस्य च पलाण्डुः प्रसिद्धः अस्ति ।

इतरभाषाभिः अस्य पलाण्डुसस्यस्य नामानि

इदं पलाण्डुसस्यम् आङ्ग्लभाषयाOnion Plant इति उच्यते । अस्य सस्यशास्त्रीयं नाम Allium Cepa अथवा A. Porrum अथवा A. Ascalonicum इति अस्ति । हिन्दीभाषया "प्याज्” इति, तेलुगुभाषया “नीरुळ्ळि” इति, तमिळ्भाषया “वेङ्कायम्” इति, मलयाळभाषया “उळ्ळि” इति, बङ्गभाषया "प्याज्" इति "पिँय़ाज्" इति च, गुजरातीभाषया “दुङ्गारि” इति, मराठीभाषायां “कांदा” इति, कन्नडभाषया “ईरुळ्ळि” अथवा “उळ्ळागड्डे” इति उच्यते ।

कषायम्

पलाण्डुं त्वक् निष्कास्य सम्यक् कुट्टनीयम् । अनन्तरं चषकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र जीरिकाचूर्णं, शुण्ठीं, मरीचचूर्णं, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

आयुर्वेदीयगुणाः

अयं सौन्दर्यदायकः आरोग्यप्रदश्च वर्तते । रोगेभ्यः शरीरं रक्षति । अस्य गन्धः रुचिः च तीक्ष्णः भवति । भक्षणोत्तरं बहुकानंपर्यन्तं अस्य गन्धः मुखे भवति । अयं कृमिनाशकः अपि । अस्य कर्तनसमये विमुच्यमानेन अनिलेन नेत्रज्वलनं भवति , अश्रूणि च आगच्छन्ति । अयं उत्तमः वातशामकः, अपि पितस्य कफस्य च वर्धकः वर्तते । अयं पाकस्य रुचिवर्धकः ।

पलाण्डुपुष्पम्

उपयोगाः

अपक्तस्य पलाण्डोः उपयोगः योग्यः । पाकेन बहवः अंशाः नष्टाः भवन्ति । अयक्तपलाण्डुना जम्बीरसं, मरीचचूर्णं लवणं इत्यादि मिश्रीकृत्य सेवनेन अधिकं विटमिन् प्राप्यते । गुडेन सह अपक्तपलाडुसेवनं बालानां शारीरकवर्धनाय हितकरम् । पलाण्डुरससेवनेन दृष्टिशक्तिः वर्धते । दृष्टिमान्द्येसति पलाण्डुरसं कञ्जलवत् नेत्रे लेपयन्ति । तदा दृष्टिमान्द्यं निवारितं भवति । अग्निमान्द्यं, अजीर्णता, अर्शोरोगः, कामाले गुदभ्रंशे च पलाण्डुः उत्तमम् औषधम् । हृदय दौर्भल्यस्य नासिकारक्तस्रावस्य च पलाण्डुं क्षीरेण सह क्वथयित्वा क्षीरपाकं सज्जीकृत्य सेवनीयम् । गुडेन, मधुना वा सह पलाण्डोः सेवनं कासनिवारणे प्रसिद्धः उपायः । वातकारणेन यदा मूत्रम् अवरुद्धं भवति तदा पलाण्डुसेवनेन मूत्रविसर्जनं सरलतया भवति । कर्णवेदनायां मन्दोष्णस्यपलाण्डुरसस्य कर्णे स्थापनेन वेदना अपगच्छति ।

साक्रामिकरोगनियन्त्रकम्

आक्षेपकः (Convulsions) सन्धिवातः,अपस्मारः, फ्लेम् इत्यादिरोगेषु सत्सु पलाण्डसेवनं रोगिणः शरीरकसामर्थं वर्धयित्वा रोगमुक्तेन भवितुं साहाय्यं करोति । मलेरियाज्वरे सति प्रातः रात्रौः मरीचत्रयेण सह पलाण्डुः सम्यकं चर्वित्वा खादनीयः ।

विषं प्रति विषं (Antidote)

अत्यधिकतमाखुसेवनेन यत् विषलक्षणं भवति तत् पलाण्डुः सेवनेन निवार्यते । विषपरिणामः न भवति ।

निद्राकरं शक्तिवर्धकं च

ये निदाहीनताम् अनुभवन्ति ते रात्रौ दघ्ना सह पलाण्डुं भक्षयन्ति चेत् सुखनिद्रां प्राप्नुवन्ति । पलाण्डोः ईलनं कृत्वा मधुना मिश्रीकृत्य चत्वारिंशत् दिनादियावत् पात्रे आच्छाद्य स्थापनीयम् । तदनन्तरं प्रतिदिनं एकचमसपरिमितं प्रातः रात्रौ च सेवनीयम् । एतेन धातुपुष्टिः भवति ।

पादस्फोटनिवारणम्

शैत्यकाले पादस्फोटः सर्वसामान्यम् । स्फोटकारणे महती वेदना अपि भवति । कदाचित् शोथः अपि भवति । पलाण्डुं सम्यक् पिष्ट्वा पादस्फोटस्य लेपं बध्नन्ति चेत् शीघ्रम् उपशमनं भवति ।

उदरकीटनिवारकम्

बालानाम् उदरकीटसमस्या अधिका भवति चेत् उदरवेदनम् अनुभवन्ति । तदा २-३ बिन्दुपरिमितः पलाण्डुरसः मधुना मिश्रीकृत्य पायनीयः । एतेन न केवलं उदरवेदना शाम्यति अपि उदरीटः अपि नष्टः भवति । एतेन मलबद्धता समस्य अपि निवारिता भवति ।

चर्मरोगनिवारकम्

किलासं व्यङ्गः इत्यादिषु चर्मरोगेषु पलाण्डुरसं कल्कं वा लेपयन्ति । नाडीशूले द्रणशोधे च पलाण्डोः कल्कम् उष्णीकृत्य लेपयन्ति । एषः शोथनिवारकः ।

सेवनविधानम्

पलाण्डुरसः १०-३० मि.ली प्रमाणे, बीजस्य चूर्णं १-३ ग्रां प्रमाणे च सेवनीयम् । बालानां सामन्यतः मधुना सह एव अस्य उपयोगः क्रियते ।

पलाण्डौ विद्यमानाः प्रधानाः अंशाः

प्रोटीन् -१.२% कार्बोहैड्रेट्, ११.६%, व्याल्सियम्, अयः, विटमिन् ए, बि,सि च । Allyl propyl Disulphide नामकं स्थिरतैलम्, कटु दुर्गन्धि उट्ड्यनशीलं तैलम् च ।

दोषाः

पलाण्डोः अधिकसेवनं बुद्धिशक्तिं कुण्ठयति । अस्य गन्धः भक्षणोत्तरं बहुकालपर्यन्तं मुखे भवति । अतः अयः मुखदूषकः इति कथ्यते ।

संक्षिप्तचिकित्सा सूचिः

अस्य रसः कटुः । अस्मिन् पलाण्डुकन्दे विद्यमानं तैलम् उत्तेजकम् । पलाण्डुकन्दः मूत्रलः, कफनाशाकः च ।

  1. अयं पलाण्डुः वमनं निवारयति । बाह्योत्तेजकम् अपि ।
  2. पलाण्डुं भर्जयित्वा रसं निष्पीड्य मधुना सह सेव्यते चेत् तत् वाजीकरं भवति ।
  3. अस्य पलाण्डोः लवणेन सह उपयोगः ज्वरे, नेत्रदोषे, कासे, श्वासरोगे च क्रियते ।
  4. उदरवेदनायां स्कर्वीरोगे चापि पलाण्डुः हितकरः ।
  5. व्रणानां, पिटकानां वा उपरि पलाण्डुं भर्जयित्वा लेपनेन ते अपगच्छन्ति ।
  6. अतिसारे, उष्णसम्बद्धेषु रोगेषु च अस्य रसः उपयुज्यते ।
  7. कर्णवेदनायाम् अपि पलाण्डुः हितकरः ।
  8. मूलव्याधौ पलाण्डुघृतं (२ – ४ चमसमितम्) उपयोक्तव्यम् ।

बाह्यसम्पर्कतन्तुः