राजेश खन्ना
राजेश खन्ना | |
---|---|
राजेश खन्ना | |
जन्म |
जतिन खन्ना २९ १९४२ अमृतसर, पञ्जाबराज्यम्, ब्रिटिश्-भारतम् |
मृत्युः |
स्क्रिप्ट त्रुटि: "death_date_and_age" फंक्शन मौजूद नहीं है। मुम्बई, महाराष्ट्रराज्यम्, भारतम् |
निवासः | आशीर्वाद, मुम्बई, महाराष्ट्रम् |
देशीयता | भारतम् |
अन्यानि नामानि |
जतिन खन्ना काका आर् के दि ओरिजिनल् किङ्ग् आफ् रोमेन्स्[१] The First Superstar of Hindi Cinema |
शिक्षणस्य स्थितिः | ness wadia college of commerce, St. Sebastian Goan High School, Kishinchand Chellaram College, Hill Grange High School |
वृत्तिः | चलच्चित्राभिनेता, चलच्चित्रनिर्मापकः, राजकीयनेता |
सक्रियतायाः वर्षाणि |
1966–2012 (अभिनेता) 1991–1996 (राजकीयम्) 1971–1995 (निर्माता) |
भार्या(ः) | डिम्पल् कपाडिया (1973–2012) |
अपत्यानि |
ट्विङ्कल् खन्ना रिङ्के खन्ना |
सम्बन्धिनः | अक्षयकुमार (जामाता) |
हस्ताक्षरम् | |
राजेशखन्नः (१९४२ डिसेम्बर् २९ - २०१२ जुलै १८) बालिवुड्-अभिनेता, चित्रनिर्मापकः, राजनेता च । सः भारतीयचलच्चित्ररङ्गस्य 'परमाभिनेता' (सूपर् स्टार्) इति प्रसिद्धः । १९७० दशके तेन अभिनीतानि सर्वाणि चलच्चित्राणि नितरां प्रसिद्धानि जातानि । तस्मात् तेन परमाभिनेतृपदं प्राप्तम् । १९७३ तमे वर्षे तेन डिम्पल् कपाडिया परिणीता । तयोः उभे पुत्रौ जाते । तौ १९८४ तमे वर्षे विवाहविच्छेदनं प्राप्तवन्तौ । तयोः ज्येष्ठपुत्री ट्विङ्कल् खन्ना अभिनेत्रा अक्षयकुमारेण परिणीता, तयोः पुत्री रिङ्के खन्ना ।
बाल्यम्
खन्नामहोदयस्य बाल्यजीवनं तावद् सुखकरं न आसीत् । १९४२ डिसंबर् मासे ९ दिनाङ्के जन्मप्राप्तवान् । एतस्य मूलनाम जतीन् इति । चुन्नालाल खन्ना तथा लीलादेवी इत्येतयोः दत्तुपुत्ररूपेण सः तेषां सुपर्दौ वर्धितः । तेषां मार्गदर्शनेन एव एतस्य विद्याभ्यासः अपि जातः । ततः रङ्गभूमिं प्रति तस्य मनः सर्वदा आकर्षति स्म । प्रथमचित्रस्य प्रसिद्धेः अनन्तरं तेन ४० वर्षाणां सुदीर्घं यानं कृतम् ।
चलच्चित्ररङ्गे
आख्री खत् चलनचित्रद्वारा चित्ररङ्गं प्रविष्टः काका शर्मिळा ढागोर्वर्यया सह अभिनीयतः “आराधना” चलनचित्रद्वारा महानायकः (Super star) अभवत् । (७०-८०) तमे दशके ‘सफर्’, ‘कटिपतङ्ग’, ‘सच्चा झूठा’, ‘आम् मिला सजनो’, ‘दो रास्ते’, ‘आनन्द’, ‘अमरप्रेम’, ‘जीवन् सायी’ आहत्य १५ प्रसिद्धानि चलनचित्राणि लोकार्पितानि आसन् । अस्मिन् वर्षे ‘ह्यावेल्स् फ्यान्’ इत्यस्य विज्ञापनस्य रूपदर्शिः आसीत् । एषा एव प्रायः तस्य अन्तिमा नटना आसीत् इति वयं वक्तुं शक्नुमः । वर्णलोके तथा निजजगति सः गम्भीरतया, तल्लीनतया जीवति स्म । तस्य भावपूर्णेन अभिनयेन सः जनमानसि सर्वदा स्थितः अस्ति । शर्मिळा ढागोर वर्यया सह अधिकाधिकेषु चलनचित्रेषु सः अभिनयं कृतवान् । अभिनयात् परम् अपि राजेश् खन्ना वर्यस्य प्रभावः अयस्कान्तः इव जनान् आकर्षयति स्म । तस्य प्रथमं चित्रम् अस्ति ‘आख्री खत्’ १९६६ तमे वर्षे एतस्य चित्रस्य लोकार्पणम् अभवत् । तदनन्तरं तु सः बहु प्रसिद्धः अभवत् । ५० वर्षाणां चलनचित्रजगतः जीवने सः सामान्यतया १६३ चित्रेषु अभिनयं कृतवान् । नवशतमाने दूरदर्शनस्य धारावाहिनीषु अपि अभिनयं कृतवान् (इत्तेफाक्, अप्ने पराये, रघुकुल रीत् सद चली आयीं )
सामान्यतया प्रत्येकं चित्रम् अपि बाक्स् आफीस् मध्ये प्रभूतं धनं सम्पादयती स्म । तस्य वस्त्रधारणस्य शैली अपि अतीवभिन्ना एव आसीत् । प्रेक्षकाः अपि तस्य एव अनुकरणं कुर्वन्ति स्मण् । तावान् प्रभावः आसीत् ।
राजकीयप्रवेशः
९० तमे दशके एतेन राजकीयरङ्गस्य प्रवेशः जातः । १९९१ तः १९९६ पर्यन्तं दिल्लिकाङ्ग्रेस पक्षस्य संसद रूपेण कार्यं कृतवान् आसीत् । पञ्जाब् राज्ये निर्वाचनसमये २०१२ तमे वर्षे काङ्गेसपक्षस्य परतया प्रचारकार्यक्रमेऽपि भागं गृहीतवान् आसीत् ।
साधितं कार्यम्
- १९६९ तः १९७१ पर्यन्तं सततं १५ चित्राणी । सर्वाणि चित्राणि अपि यशस्वीनि चित्राणि एव ।
- अभिनीतानि चित्राणि १६३ ।
- ३ वारं फिलिंफेर् प्रशस्तिः ।
- प्रथमं चित्रम् ‘आख्री खत्’ (१९६६) । अन्तिमं चित्रं ‘वफा’ ।
- १९६६-२०१२ नटः, निर्माणकः च ।
- १९९१- १९९६ काङ्ग्रेस् पक्षस्य संसदः ।
- अत्युत्तमानि ५ चित्राणि – आराधना, आनन्द, बावर्चि, प्रेमकहानि, नमक् हराम् ।
- राजेशः १६३ चलच्चित्रेषु अभिनयम् अकरोत् तेषु १२८ चलच्चित्रेषु प्रमुखनायकः आसीत् । तेन १७ लघुचलच्चित्रेषु अपि अभिनयः कृतः । त्रिवारं तेन अत्युत्तमाभिनेतृप्रशस्तिः प्राप्ता अस्ति ।
मृत्युः
अर्बुदरोगेण दीर्घकालात् पीडितः सः २०१२ तमे वर्षे जुलैमासस्य १८ दिनाङ्के दिवङ्गतः । तस्मिन् दिने समग्रं बालिवुड्जनाः सर्वे अपि तत्र सम्मिलिताः आसन् ।
सन्दर्भाः
- ↑ "Rajesh Khanna Net Worth | Celebrity Net Worth". celebritynetworth.com. आह्रियत 27 May 2014.