गुनामण्डलम्

गुनामण्डलम्

guna District
गुना जिला
मध्यप्रदेश राज्यस्य मानचित्रे गुनामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे गुनामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि गुना, राघवगढ, चाचौडा, कुम्भराज, आरोन, बमोरी, मकसून्दागढ
विस्तारः ६,३९० च. कि. मी.
जनसङ्ख्या (२०११) १२,४१,५१९
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६३.२३%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४५.५%
Website http://www.guna.nic.in/

गुनामण्डलम् ( /ˈɡʊnɑːməndələm/) (हिन्दी: गुना जिला, आङ्ग्ल: Guna district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति गुना इति नगरम् ।

भौगोलिकम्

गुनामण्डलस्य विस्तारः ६,३९० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे अशोकनगरमण्डलं, पश्चिमे राजस्थानराज्यम्, उत्तरे राजस्थानराज्यं, दक्षिणे भोपालमण्डलम् अस्ति । अस्मिन् मण्डले द्वे नद्यौ प्रवहतः । ते सिन्धुनदी, पार्वतीनदी च ।

जनसङ्ख्या

२०११ जनगणनानुगुणं गुनामण्डलस्य जनसङ्ख्या १२,४१,५१९ अस्ति । अत्र ६,४९,३६२ पुरुषाः, ५,९२,१५७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.९७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१२ अस्ति । अत्र साक्षरता ६३.२३% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- गुना, राघवगढ, चाचौडा, कुम्भराज, आरोन, बमोरी, मकसून्दागढ ।

वीक्षणीयस्थलानि

बीसभुजादेवी-मन्दिरम्

बीसभुजादेवी-मन्दिरं गुना-नगरात् ८ कि. मी. दूरे अस्ति । पर्वतस्य शिखरे इदं मन्दिरं स्थितमस्ति । अस्मिन् मन्दिरे देव्याः विंशतिभुजाः सन्ति किन्तु आश्चर्यस्य विषयः अस्ति यत् मातुः भुजाः येन केनापि गणयितुं न शक्यते । यस्य उपरि मातुः कृपा भवति स एव गणयितुं शक्नोति इति मान्यता अस्ति । पुरा इदं लघुमन्दिरम् आसीत् किन्तु समयान्तरे अस्य जीर्णोद्धारः कृतः ।

बजरङ्गगढ-दुर्गः

बजरङ्गगढ-दुर्गस्य निर्माणं द्वादशशताब्द्यां राग-वंशजैः कारितम् । अयं दुर्गः कृष्णपाषाणयुक्तः अस्ति । अस्य भित्तिकासु आकर्षकाः मूर्तिकलाः सन्ति । ’हनुमान टेकरी’, ’गोपीकृष्ण-जलबन्धः’ अपि अस्य मण्डलस्य मुख्ये वीक्षणीयस्थले स्तः ।

बाह्यसम्पर्कतन्तुः

http://www.guna.nic.in/ Archived २०१९-०८-१० at the Wayback Machine
http://www.census2011.co.in/census/district/325-guna.html