मन्दसौरमण्डलम्

मन्दसौरमण्डलम्

Mandsaur District
मन्दसौर जिला
मन्दसौरमण्डलम्
मन्दसौरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे मन्दसौरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे मन्दसौरमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि मन्दसौर, भानपुरा, गरोठ, शामगढ, सुवासरा, सीतामऊ, दलौदा
विस्तारः ५,५३५ च. कि. मी.
जनसङ्ख्या (२०११) १३,४०,४११
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७१.७८%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४८%
Website http://mandsaur.nic.in/

मन्दसौरमण्डलम् ( /ˈməndəsɔːrəməndələm/) (हिन्दी: मंदसौर जिला, आङ्ग्ल: Mandsaur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मन्दसौर इति नगरम् ।

भौगोलिकम्

मन्दसौरमण्डलस्य विस्तारः ५,५३५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे राजस्थानराज्यं, पश्चिमे राजस्थानराज्यम्, उत्तरे राजस्थानराज्यं, दक्षिणे रतलाममण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी, शिवनानदी च प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं मन्दसौरमण्डलस्य जनसङ्ख्या १३,४०,४११ अस्ति । अत्र ६,८२,८५१ पुरुषाः, ६,५७,५६० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.२४ % आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६३ अस्ति । अत्र साक्षरता ७१.७८% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- मन्दसौर, भानपुरा, गरोठ, शामगढ, सुवासरा, सीतामऊ, दलौदा ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले पुलोमह्याः उत्पादनं भवति, विश्वस्तरे अस्य व्यापारश्च भवति । अतः सम्पूर्णे विश्वे विख्यातं मण्डलमिदम् । अस्मिन् मण्डले अङ्किनी-लेखफलकानां व्यापारः भवति । अङ्किनी-लेखफलकाय आभारतं प्रसिद्धमस्ति इदं मण्डलम् ।

वीक्षणीयस्थलानि

पशुपतिनाथ-मन्दिरम्

पशुपतिनाथ-मन्दिरं मन्दसौर-नगरे स्थितम् अस्ति । अस्मिन् मन्दिरे भगवतः शङ्करस्य अष्टमुखी प्रतिमा अस्ति । इयं एका लिङ्गरूपा प्रतिमा अस्ति । अस्याम् मूर्तौ उपरि चत्वारि मुखानि, अधः चत्वारि मुखानि सन्ति । भगवतः शङ्करस्य अपरं नाम पशुपतिनाथः अस्ति । इदं मन्दिरं शिवनानद्याः तटे स्थितम् अस्ति । अष्टमुखीप्रतिमायाः भारः ४६०० कि. ग्रा. अस्ति । अस्याः उच्चता ७.२५ फीट अस्ति । बहवः श्रद्धालवः तत्र दर्शनार्थं गच्छन्ति । प्रतिवर्षं कार्त्तिकमासे तत्र महा ’मेला’ भवति । नेपाल-देशे अपि पशुपतिनाथ-मन्दिरम् अस्ति । तस्य मन्दिरस्य एव अपरं रूपं मन्दिरम् इदमस्ति ।

गान्धीसागर-जलबन्धः

गान्धीसागर-जलबन्धः चम्बलनद्यां निर्मितम् अस्ति । अत्र विद्युन्निर्माणं भवति । अस्य जलबन्धस्य निर्माणम् ई. १९५४ तमस्य वर्षस्य मार्च-मासस्य ७ दिनाङ्के अभवत् । अस्य जलबन्धस्य निर्माणं भूतपूर्वप्रधानमन्त्रिणा पं. जवाहरलाल नेहरू इत्यनेन कारितम् । ई. १९५७ तमे वर्षे विद्युद्यन्त्रागारस्य प्रारम्भो जातः । अस्य जलबन्धस्य निर्माणकार्ये १८ कोटिः ४० लक्षं रूप्यकाणां व्ययः अभवत् । एवं विद्युद्यन्त्रागारस्य निर्माणकार्ये ४ कोटिः ८० लक्षं रूप्यकाणां व्ययः अभवत् । गान्धीसागर-विद्युद्यन्त्रागारः ६५ मी. लम्बमानः एवं ५६ फीट विस्तृतः वर्तते । अयं विद्युद्यन्त्रागारः मध्यप्रदेशराज्याय राजस्थानराज्याय च विद्युत् प्रेषयति ।

धर्मराजेश्वर, पोलाडुङ्गर, चामुण्डामाता-मन्दिरं, छत्री-गरोठ, कालेश्वर-मन्दिरं, शङ्खोद्वार, नीलकण्ठेश्वर महादेव मलकाना, अम्बेमाता-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://mandsaur.nic.in/
http://www.census2011.co.in/census/district/300-mandsaur.html