बैतूलमण्डलम्

बैतूलमण्डलम्

Betul District
बैतूल जिला
बैतूलमण्डलम्
बैतूलमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे बैतुलमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे बैतुलमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि बैतूल, चिचोली, शाहपुर, घोडा डोङ्गरी, अमला, मुलताई, भैसदेही, अठनेर
विस्तारः १०,०४३ च. कि. मी.
जनसङ्ख्या (२०११) १५,७५,३६२
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६८.९०%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४८.५%
Website http://betul.nic.in/

बैतूलमण्डलम् ( /ˈbɛɪtʊləməndələm/) (हिन्दी: बैतूल जिला, आङ्ग्ल: Betul district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य नर्मदापुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बैतूल इति नगरम् ।

भौगोलिकम्

बैतूलमण्डलस्य विस्तारः १०,०४३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छिन्दवाडामण्डलं, पश्चिमे हरदामण्डलम्, उत्तरे होशङ्गाबादमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले तापीनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं बैतूलमण्डलस्य जनसङ्ख्या १५,७५,३६२ अस्ति । अत्र ७,९९,२३६ पुरुषाः, ७,७६,१२६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५७ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.९२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७१ अस्ति । अत्र साक्षरता ६८.९०% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- बैतूल , चिचोली, शाहपुर, घोडा डोङ्गरी, अमला, मुलताई, भैसदेही, अठनेर ।

वीक्षणीयस्थलानि

मुलताई-नगरम्

मुलताई-नगरं तापीनद्याः उद्गमस्थलम् अस्ति । तापीनदी सूर्यस्य पुत्री अस्ति । बहवः जनाः दर्शनार्थं तत्र गच्छन्ति । स्कन्दपुराणे लिखितम् अस्ति यद् तापीनदी सूर्यपुत्री, शनियमयोः भगिनी च अस्ति । अतः ये जनाः शनेः पीडिताः सन्ति ते तत्र गत्वा मुक्तिं प्राप्नुवन्ति । तापीनदी मध्यप्रदेशस्य द्वितीया प्रमुखा नदी अस्ति । तापीनदी अरबसागरे खम्बातगर्ते पतति ।

बालाजीपुर-नगरम्

बालाजीपुर-नगरे भगवतः बालाजी-देवस्य विशालमन्दिरम् अस्ति । इदं मन्दिरं बैतूल-नगरात् ७ कि. मी. दूरे अस्ति । बहवः श्रद्धालवः तत्र दर्शनार्थं गच्छन्ति । मन्दिरेऽस्मिन् रामजीवनसम्बन्धीनि प्रदर्शनानि सन्ति । तत्र वैष्णोदेव्याः मन्दिरमपि अस्ति । अस्मिन् मन्दिरे एका गुहा अस्ति । कृत्रिमजलप्रपातः अपि मन्दिरेऽस्मिन् अस्ति ।

बाह्यसम्पर्कतन्तुः

http://betul.nic.in/
http://www.census2011.co.in/census/district/314-betul.html