मुरैनामण्डलम्

मुरैनामण्डलम्

Morena District
मुरैना जिला
मुरैनामण्डलम्
मुरैनामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे मुरैनामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे मुरैनामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि मुरैना, पोरसा, अम्बाह, जावरा, कैलारस, सबलगढ
विस्तारः ४,९८९ च. कि. मी.
जनसङ्ख्या (२०११) १९,६५,९७०
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७१.०३%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४२%
Website http://morena.nic.in/

मुरैनामण्डलम् ( /ˈmʊrɛɪnɑːməndələm/) (हिन्दी: मुरैना जिला, आङ्ग्ल: Morena district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य चम्बलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मुरैना इति नगरम् ।

भौगोलिकम्

मुरैनामण्डलस्य विस्तारः ४,९८९ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे भिण्डमण्डलं, पश्चिमे राजस्थानराज्यम्, उत्तरे राजस्थानराज्यं, दक्षिणे ग्वालियरमण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं मुरैनामण्डलस्य जनसङ्ख्या १९,६५,९७० अस्ति । अत्र १०,६८,४७० पुरुषाः, ८,९७,५५३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.४४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८४० अस्ति । अत्र साक्षरता ७१.०३% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- मुरैना, पोरसा, अम्बाह, जावरा, कैलारस, सबलगढ ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले गोधूमस्य कृषिः भवति । सर्षपः अपि तत्र अत्यधिकपरिमाणेन उत्पाद्यते ।

वीक्षणीयस्थलानि

कुतवारग्रामः

कुतवारग्रामः इति कुन्तलपुरग्रामस्य अपरं नाम अस्ति । इदं स्थलं महाभारतकालीनम् अस्ति । अत्र विशाला चम्बलद्रोणिः अस्ति । चम्बलद्रोण्याः समीपे इदं स्थलं स्थितमस्ति ।

मीतावलि

’मीतावलि’ इति इदं स्थलं रमणीयमस्ति । अस्मिन् स्थले पर्वतोपरि चतुःषष्ठियोगिनीनां मन्दिरम् अस्ति । इदं मन्दिरं १०० फीट उच्चतायां स्थितमस्ति । सिहोनिया, पदावली, राष्ट्रीय चम्बल अभ्यारण, पहाडगढ इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://morena.nic.in/
http://www.census2011.co.in/census/district/286-morena.html