सिवनीमण्डलम्

सिवनीमण्डलम्

Seoni District
सिवनी जिला
सिवनीमण्डलम्
सिवनीमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे सिवनीमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे सिवनीमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि सिवनी, लखनादौन, घन्सौर, धनोरा, छपरा, केवलारी, बरघाट, कुरई
विस्तारः ८,७५८ च. कि. मी.
जनसङ्ख्या (२०११) १३,७९,१३१
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७२.१२%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://seoni.nic.in/

सिवनीमण्डलम् ( /ˈsɪvəniːməndələm/) (हिन्दी: सिवनी जिला, आङ्ग्ल: Seoni district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सिवनी इति नगरम् ।

भौगोलिकम्

सिवनीमण्डलस्य विस्तारः ८,७५८ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे मण्डलामण्डलं, पश्चिमे छिन्दवाडामण्डलम्, उत्तरे जबलपुरमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले वेणगङ्गानदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं सिवनीमण्डलस्य जनसङ्ख्या १३,७९,१३१ अस्ति । अत्र ६,९५,८७९ पुरुषाः, ६,८३,२५२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५७ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १८.२२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ७२.१२% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- सिवनी, लखनादौन, घन्सौर, धनोरा, छपरा, केवलारी, बरघाट, कुरई ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले सेओना नामकवृक्षाः सन्ति । अयं वृक्षः मण्डलेऽस्मिन् अत्यधिकसङ्ख्यायां दृश्यते । अस्य वृक्षस्य उपयोगः मृदङ्गनिर्माणे भवति ।

वीक्षणीयस्थलानि

पेंच राष्ट्रीय उद्यान

बाह्यसम्पर्कतन्तुः

http://seoni.nic.in/
http://www.census2011.co.in/census/district/323-seoni.html