सीधीमण्डलम्

सीधीमण्डलम्

Sidhi District
सीधी जिला
मध्यप्रदेश राज्यस्य मानचित्रे सीधीमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे सीधीमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि चुरहट, सिहावल, गोपडबनास, मझौली, कुसमी, रामपुर नाईकिन
विस्तारः ४,८५१ च. कि. मी.
जनसङ्ख्या (२०११) ११,२७,०३३
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६४.४३%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४७.५%
Website http://sidhi.nic.in/

सीधीमण्डलम् ( /ˈsiːðiːməndələm/) (हिन्दी: सीधी जिला, आङ्ग्ल: Sidhi district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सीधी इति नगरम् ।

भौगोलिकम्

सीधीमण्डलस्य विस्तारः ४,८५१ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सिङ्गरौलीमण्डलं, पश्चिमे सतनामण्डलम्, उत्तरे रीवामण्डलं, दक्षिणे छत्तीसगढराज्यम् अस्ति । अस्मिन् मण्डले सोननदी प्रवहति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं सीधीमण्डलस्य जनसङ्ख्या ११,२७,०३३ अस्ति । अत्र ५,७५,९१२ पुरुषाः, ५,५१,१२१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.७२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५७ अस्ति । अत्र साक्षरता ६४.४३% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- चुरहट, सिहावल, गोपडबनास, मझौली, कुसमी, रामपुर नाईकिन ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले अङ्गाराणाम् उत्पत्तिर्भवति । अस्मिन् मण्डले विन्ध्याचलपर्वते ’सूपर थर्मल’ विद्युदुत्पादनयन्त्रागारः अस्ति ।

वीक्षणीयस्थलानि

कैमूर, खेजुआ, रानीमुण्डा इत्येतानि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

http://sidhi.nic.in/
http://www.census2011.co.in/census/district/329-sidhi.html